(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.72. अध्यायः 072
Mahabharata - Drona Parva - Chapter Topics
अभिमन्युमनुशोच्यार्जुनस्य विलापः॥ 1 ॥


Mahabharata - Drona Parva - Chapter Text

धृतराष्ट्र उवाच। 7-72-0x(4438)(47327)
अथ संशप्तकैः सार्धं युध्यमाने धनञ्जये।
अभिमन्यौ हते चापि बाले बलवतां वरे॥ 7-72-1(47328)
महर्षिसत्तमे याते व्यासे स तु युधिष्ठिरः।
पाण्डवाः किमथाऽकार्षुः शोकोपहतचेतसः॥ 7-72-2(47329)
कथं संशप्तकेभ्यो वा निवृत्तो वानरध्वजः।
केन वा कथितस्तस्य प्रशान्तः सुतपावकः।
एतन्मे शंस तत्त्वेन सर्वमेवेह सञ्जय॥ 7-72-3(47330)
सञ्जय उवाच। 7-72-4x(4439)
शृणु राजन्यथा तेभ्यो निवृत्तः कृष्णसारथिः।
ततः सर्वाणि सैन्यानि दहन्कृष्णगतिर्यथा॥ 7-72-4(47331)
सम्प्रयातेऽस्तमादित्ये संध्याकाल उपस्थिते।
अयातस्यात्मशिबिरं निमित्तैरघशंसिभिः॥ 7-72-5(47332)
यच्चासीन्मानसं तस्य यच्च कृष्णेन भाषितम्।
यथा च कथितस्तस्य निहतः सुतपावकः।
विस्तरेणैव मे सर्वं ब्रुवतः शृणु मारिष'॥ 7-72-6(47333)
तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये।
आदित्येऽस्तङ्गते श्रीमान्सन्ध्याकाल उपस्थिते॥ 7-72-7(47334)
व्यपयातेषु वासाय सर्वेषु भरतर्षभ।
हत्वा संशप्तकव्रातान्दिव्यैरस्त्रैः कपिध्वजः॥ 7-72-8(47335)
प्रायात्स्वशिबिरं जिष्णुर्जैत्रमास्थाय तं रथम्।
गच्छन्नेव च गोविन्दं साश्रुकण्ठोऽभ्यभाषत॥ 7-72-9(47336)
किं तु मे हृदयं त्रस्तं वाक्व सज्जति केशव।
स्यन्दने नावतिष्ठामि गात्रैः सीदामि चाच्युत॥ 7-72-10(47337)
अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पति।
भुविये दिक्षु चात्युग्रा उत्पातास्त्रासयन्ति माम्॥ 7-72-11(47338)
बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः।
अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम॥ 7-72-12(47339)
वासुदेव उवाच। 7-72-13x(4440)
व्यक्तं शिवं सहभ्रातुर्धर्मराजस्य पाण्डव।
मा शुचःकिञ्चिदेवान्यत्तत्रानिष्टं भविष्यति॥ 7-72-13(47340)
सञ्जय उवाच। 7-72-14x(4441)
ततः सन्ध्यामुपास्यैव वीरौ वीरावसादने।
कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ॥ 7-72-14(47341)
ततः स्वशिबिरं प्राप्तौ हतामित्रौ हतद्विषौ।
वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम्॥ 7-72-15(47342)
ध्वस्ताकारमिवालेख्यं संवीक्ष्य शिबिरं स्वकम्।
बीभत्सुरब्रवीत्कृष्णमस्वस्थहृदयस्ततः॥ 7-72-16(47343)
नदन्ति नाद्य तूर्याणि मङ्गल्यानि जनार्दन।
मिश्रा दुन्दुभिनिर्धोषैः शङ्खाश्चाडम्बरैः सह॥ 7-72-17(47344)
वीणा नैवाद्य वाद्यन्ते शम्यातालस्वनैः सह।
मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च॥ 7-72-18(47345)
स्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः।
योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः॥ 7-72-19(47346)
कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम्।
अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव॥ 7-72-20(47347)
न हि शुद्ध्यति मे भावो दृष्ट्वा स्वजनमाकुलम्।
अपि पाञ्चालराजस्य विराटस्य च मानद॥ 7-72-21(47348)
सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत।
न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह।
रणादायान्तमुचितं प्रत्युद्याति हसन्निव॥ 7-72-22(47349)
सञ्जय उवाच। 7-72-23x(4442)
एवं सङ्कथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम्।
ददृशाते भृशास्वस्थान्पाण्डवान्नष्टचेतसः॥ 7-72-23(47350)
दृष्ट्वा भ्रातृंश्च पुत्रांश्च विमना वानरध्वजः।
अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत्॥ 7-72-24(47351)
मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते।
न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ॥ 7-72-25(47352)
मया श्रुतश्च द्रोणेन पद्मव्यूहो विनिर्मितः।
न च वस्तस्य भेत्ताऽस्ति विना सौभद्रमर्भकम्॥ 7-72-26(47353)
न चोपदिष्टस्तस्यासीन्मयानीकाद्विनिर्गमः।
कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः॥ 7-72-27(47354)
भित्त्वाऽनीकं महेष्वासः परेषां बहुभिर्युधि।
कच्चिन्न निहतः सङ्ख्ये सौभद्रः परवीरहा॥ 7-72-28(47355)
लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु।
उपेन्द्रसदृशं ब्रूत कथमायोधने हतः॥ 7-72-29(47356)
सुकुमारं महेष्वासं वासवस्यात्मजात्मजम्।
सदा मम प्रियं ब्रूत कथमायोधने हतः॥ 7-72-30(47357)
सुभद्रायाः प्रियं पुत्रं द्रौपद्याः केशवस्य च।
अम्बायाश्च प्रियं नित्यं कोवधीत्कालमोहितः॥ 7-72-31(47358)
सदृशो वृष्णिवीरस्य केशवस्य महात्मनः।
विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः॥ 7-72-32(47359)
वार्ष्णेयीदयितं शूरं मया सततलालितम्।
यदि पुत्रं न पश्यामि यास्यामि यमसादनम्॥ 7-72-33(47360)
मृदुकुञ्चितकेशान्तं बालं बालमृगेक्षणम्।
मत्तद्विरदविक्रान्तं सिंहपोतमिवोद्गतम्॥ 7-72-34(47361)
स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा।
बाल्येऽप्यतुलकर्माणं प्रियवाक्यममत्सरम्॥ 7-72-35(47362)
महोत्साहं महाबाहुं दीर्घराजीवलोचनम्।
भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम्॥ 7-72-36(47363)
कृतज्ञं ज्ञानसम्पन्नं कृतास्त्रभनिवर्तिनम्।
युद्धाभिनन्दिनं नित्यं द्विषतां भयवर्धनम्॥ 7-72-37(47364)
स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनम्।
न च पूर्वं प्रहर्तारं सम्प्रमे नष्टसम्भ्रमम्।
यदि पुत्रं न पश्यामि यास्यामि यमसादनम्॥ 7-72-38(47365)
रथेषु गण्यमानेषु गणितं तं महारथम्।
मयाऽध्यर्धगुणं सङ्ख्ये तरुणं बाहुशालिनम्॥ 7-72-39(47366)
प्रद्युम्नस्य प्रियं नित्यं केशवस्य ममैव च।
यदि पुत्रं न पश्यामि यास्यामि यमसादनम्॥ 7-72-40(47367)
सुनसं सुललाटान्तं स्वक्षिभ्रूदशनच्छदम्।
अपश्यतस्तद्वदनं का शान्तिर्हृदयस्य मे॥ 7-72-41(47368)
तन्त्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम्।
अशृण्वतः स्वनं तस्य का शान्तिर्हृदयस्य मे॥ 7-72-42(47369)
रूपं चाप्रतिमं तस्य त्रिदशैश्चापि दुर्लभम्।
अपश्यतो हि वीरस्य का शान्तिर्हृदयस्य मे॥ 7-72-43(47370)
अभिवादनदक्षं तं पितॄणां वचने रतम्।
नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे॥ 7-72-44(47371)
सुकुमारः सदा वीरो महार्हशयनोचितः।
भूमावनाथवच्छेते नूनं नाथवतां वरः॥ 7-72-45(47372)
शयानं समुपासन्ति यं पुरा परमस्त्रियः।
तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः॥ 7-72-46(47373)
यः पुरा बोध्यते सुप्तः सूतमागधबन्दिभिः।
बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वनैः॥ 7-72-47(47374)
छत्रच्छायासमुचितं तस्य तद्वदनं शुभम्।
नूनमद्य रजोध्वस्तं रणरेणुः करिष्यति॥ 7-72-48(47375)
हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने।
भाग्यहीनस्य कालेन यथा मे नीयसे बलात्॥ 7-72-49(47376)
सा च संयमनी नूनं सदा सुकृतिनां गतिः।
स्वभाभिर्मोहिता रम्या त्वयाऽत्यर्थं विराजते॥ 7-72-50(47377)
नूनं वैवस्वतश्च त्वां वरुणश्च प्रियातिथिम्।
शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम्॥ 7-72-51(47378)
सञ्जय उवाच। 7-72-52x(4443)
एवं विलप्य बहुधा भिन्नपोतो वगिग्यथा।
दुःखेन महताऽविष्टो युधिष्ठिरमपृच्छत॥ 7-72-52(47379)
`कथं त्वयि च भीमे च धृष्टद्युम्ने च जीवति।
सात्यके शक्रविक्रान्ते सौभद्रो निहतः परैः'॥ 7-72-53(47380)
कच्चित्स कदनं कृत्वा परेषां कुरुनन्दन।
स्वर्गतोऽभिमुखः सङ्ख्ये युध्यमानो नरर्षभैः॥ 7-72-54(47381)
स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः।
असहायः सहायार्थी मामनुध्यातवान्ध्रुवम्॥ 7-72-55(47382)
पीड्यमानः शरैर्बालस्तात साध्वभिधाव माम्।
इति विप्रलपन्मन्ये नृशंसैर्भुवि पातितः॥ 7-72-56(47383)
अथवा मत्प्रसूतः स स्वस्रीयो माधवस्य च।
सुभद्रायां च सम्भूतो न चैवं वक्तुमर्हति॥ 7-72-57(47384)
वज्रसारमयं नूनं हृदयं सुदृढं मम।
अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते॥ 7-72-58(47385)
कथं बाले महेष्वासा नृशंसा मर्मभेदिनः।
स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपञ्शरान्॥ 7-72-59(47386)
यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दति।
उपयान्तं रिपून्हत्वा सोऽद्य मां किं न पश्यति॥ 7-72-60(47387)
नूनं स पातितः शेते धरण्यां रुधिरोक्षितः।
शोभयन्मेदिनीं गात्रैरादित्य इव पातितः॥ 7-72-61(47388)
सुभद्रामनुशोचामि या पुत्रमपलायिनम्।
रणे विनिहतं श्रुत्वा शोकार्ता वै विनङ्क्षति॥ 7-72-62(47389)
सुभद्रा वक्ष्यते किं मामबिमन्युमपश्यती।
द्रौपदीं चैव दुःखार्तां किं वा वक्ष्यामि तामहम्॥ 7-72-63(47390)
वज्रसारमयं नूनं हृदयं यन्न यास्यति।
सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम्॥ 7-72-64(47391)
हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः।
युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन्॥ 7-72-65(47392)
अशक्नुवन्तः पार्थस्य बालं हत्वा महाबलम्।
किं न लज्जन्त्यधर्मज्ञाः पार्थिवा दृश्यतां बलम्॥ 7-72-66(47393)
किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधे।
सिंहवन्नदथ प्रीताः शोककाल उपस्थिते॥ 7-72-67(47394)
आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः।
अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरम्॥ 7-72-68(47395)
इति तान्परिभाषन्वै वैश्यापुत्रो महामतिः।
अपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः॥ 7-72-69(47396)
किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम।
अधक्ष्यं तानहं क्रूरांस्तदा सर्वान्महारथान्॥ 7-72-70(47397)
सञ्जय उवाच। 7-72-71x(4444)
पुत्रशोकार्दितं पार्थं ध्यायन्तं साश्रुलोचनम्।
निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम्।
मैवमित्यब्रवीत्कृष्णस्तीव्रशोकसमन्वितम्॥ 7-72-71(47398)
सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम्।
क्षत्रियाणां विशेषेण येषां नः शस्त्रजीविका॥ 7-72-72(47399)
एषा वै युध्यमानानां शूराणामनिवर्तिनाम्।
विहिता सर्वशास्त्रज्ञैर्गतिर्मतिमतां वर॥ 7-72-73(47400)
ध्रुवं हि युद्धे मरणं शूरामामनिवर्तिनाम्।
गतः पुण्यकृतां लोकानभिमन्युर्न संशयः॥ 7-72-74(47401)
एतच्च सर्ववीराणां काङ्क्षितं भरतर्षभ।
सङ्ग्रामेऽभिमुखा मृत्युं प्राप्नुयामेति मानद॥ 7-72-75(47402)
स च वीरान्रणे हत्वा राजपुत्रान्महाबलान्।
वीरैराकाङ्क्षितं मृत्युं सम्प्राप्तोऽभिमुखं रणे॥ 7-72-76(47403)
मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः।
धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः॥ 7-72-77(47404)
इमे ते भ्रातरः सर्वे दीना भरतसत्तम।
त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव॥ 7-72-78(47405)
एतांश्च वचसा साम्ना समाश्वासय मानद।
विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि॥ 7-72-79(47406)
सञ्जय उवाच। 7-72-80x(4445)
एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा।
ततोऽब्रवीत्तदा भ्रातॄन्सर्वान्पार्थः सगद्गदम्॥ 7-72-80(47407)
स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः।
अभिमन्युर्यथा वृत्तः श्रोतुमिच्छाम्यहं तथा॥ 7-72-81(47408)
सनागस्यन्दनहयान्सङ्ग्रामे निहतान्मया।
क्षिप्रं द्रक्ष्यन्ति ते नूनं मम पुत्रं निहत्य वै॥ 7-72-82(47409)
कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम्।
सौभद्रो निधनं गच्छेद्वज्रिणापि समागतः॥ 7-72-83(47410)
यद्येवमहमज्ञास्यमशक्तान्रक्षणे मम।
सूनोः पाण्डवपाञ्चालानगोप्स्यं तं महारणे॥ 7-72-84(47411)
कथं च वो रथस्यानां शरवर्षाणि मुञ्चताम्।
नीतोऽभिमन्युर्निधनं कदर्थीकृत्य वः परैः॥ 7-72-85(47412)
अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः।
यत्राभिमन्युः समरे पश्यतां वो निपातितः॥ 7-72-86(47413)
आत्मानमेव गर्हेयं यदहं वै सुदुर्बलान्।
युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्चयान्॥ 7-72-87(47414)
आहोस्विद्भूषणार्थाय वर्मशस्त्रायुधानि वः।
वाचस्तु वक्तुं संसत्सु मम पुत्रमरक्षताम्॥ 7-72-88(47415)
सञ्जय उवाच। 7-72-89x(4446)
एवमुक्त्वा ततो वाक्यमतिष्ठद्वै वरासिमान्।
न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम्॥ 7-72-89(47416)
तमन्तकमिव क्रुद्धं निःश्वसन्तं मुहुर्मुहुः।
`महेन्द्रमिव तिष्ठन्तं वज्रोद्यतमहाभुजम्'।
पुत्रशोकाभिसन्तप्तमश्रुपूर्णमुखं तदा॥ 7-72-90(47417)
न भाषितुं शक्नुवन्ति द्रष्टुं वा सुहृदोऽर्जुनम्।
अन्यत्र वासुदेवाद्वा ज्येष्ठाद्वा पाण्डुनन्दनात्॥ 7-72-91(47418)
सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौ।
बहुमानात्प्रियत्वाच्च तावेनं वक्तमर्हतः॥ 7-72-92(47419)
ततस्तं पुत्रशोकेन भृशं पीडितमानसम्।
राजीवलोचनं क्रुद्धं राजा वचनमब्रवीत्॥ ॥ 7-72-93(47420)

इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि द्विसप्ततितमोऽध्यायः॥ 72 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-72-11 श्लिष्टमनुबद्धम्॥ 5-72-17 आडम्बरैस्तूर्यरवैः॥ 5-72-49 यथेति कथमर्थे॥ 5-72-70 वासुदेव उवाच। किमर्थमेतन्नाख्यातं त्वया पार्थ रणे मम इति ट.पाठः॥ 5-72-72 द्विसप्ततितमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.